|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.69. अध्यायः 069
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमाहात्म्यप्रतिपादकपृथ्वीवासुदेवसंवादानुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
ब्राह्मणानेव सततं भृशं सम्परिपूजयेत्।
एते हि सोमराजान ईश्वरः सुखदुःखयोः॥ 13-69-1(84262)
एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः।
सदा पूज्या नमस्कारै रक्ष्याश्च पितृवन्नृपैः।
ततो राष्ट्राय शान्तिर्हि भूतानामिव वासवात्॥ 13-69-2(84263)
ज्ञानवान्ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः।
महारथश्च राजन्य एष्टव्यः शत्रुतापनः॥ 13-69-3(84264)
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम्।
बोजयीत गृहे राजन्न तस्मात्परमस्ति वै॥ 13-69-4(84265)
ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः।
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम्॥ 13-69-5(84266)
आदित्यश्चन्द्रमा विष्णुः सङ्करोऽग्निः प्रजापतिः।
सर्वे ब्राह्मणमाविश्य सदाऽन्नमुपभुञ्जते॥ 13-69-6(84267)
न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते।
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः॥ 13-69-7(84268)
ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा।
तथैव देवता राजन्नात्र कार्या विचारणा॥ 13-69-8(84269)
तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः।
न च प्रेत्य विनश्यन्ति गच्छन्ति च परां गतिम्॥ 13-69-9(84270)
येनयेनैव प्रीयन्ते पितरो देवतास्तथा॥
तेनतेनैव प्रीयन्ते पितरो देवतास्तथा॥ 13-69-10(84271)
ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः।
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति॥ 13-69-11(84272)
वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च।
आगतानागते चोमे ब्राह्मणो द्विपदांवरः॥ 13-69-12(84273)
ब्राह्मणो द्विपदां श्रेष्ठः स्वधर्मं चैव वेद यः।
ये चैनमनुवर्तन्ते ते न यान्ति पराभवम्।
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम्॥ 13-69-13(84274)
यद्ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः।
कृतात्मानो महात्मानस्ते न यान्ति पराभवम्॥ 13-69-14(84275)
क्षत्रियाणां प्रतपतां तेजसा च बलेन च।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च॥ 13-69-15(84276)
भृगवस्तालजङ्घांश्च नीपानाङ्गिरसोऽजयन्।
भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ॥ 13-69-16(84277)
चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः।
प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत्॥ 13-69-17(84278)
यत्किंचित्कथ्यते लोके श्रूयते पठ्यतेऽपि वा।
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु॥ 13-69-18(84279)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ॥ 13-69-19(84280)
वासुदेव उवाच। 13-69-20x(7005)
मातरं सर्वभूतानां पृच्छे त्वां संशयं शुभे।
केनस्वित्कर्मणा पापं व्यपोहति नरो गृही॥ 13-69-20(84281)
पृथिव्युवाच। 13-69-21x(7006)
ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम्।
ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति।
भूतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते॥ 13-69-21(84282)
महारथश्च राजन्य एष्टव्यः शत्रुतापनः।
इति मां नारदः प्राह सततं सर्वभूतये॥ 13-69-22(84283)
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितं शुचिम्।
अपरेषां परेषां च परेभ्यश्चैव ये परे॥ 13-69-23(84284)
ब्राह्मणा यं प्रशंसन्ति स मनुष्यः प्रवर्धते।
अथ यो ब्राह्मणान्क्रुष्टः पराभवति सोचिरात्॥ 13-69-24(84285)
यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति।
तथा दुश्चरितं विप्रे पराभावाय कल्पते॥ 13-69-25(84286)
पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम्।
तथा भगसहस्रेण महेन्द्रः परिचिह्नितः॥ 13-69-26(84287)
तेषामेव प्रभावेन सहस्रनयनो ह्यसौ।
शतक्रतुः समभवत्पश्य माधव यादृशम्॥ 13-69-27(84288)
इच्छन्कीर्तिं च भूतिं च लोकांश्च मधुसूदन।
ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान्॥ 13-69-28(84289)
भीष्म उवाच। 13-69-29x(7007)
इत्येतद्वचनं श्रुत्वा मेदिन्या मधूसूदनः।
साधुसाध्विति कौरव्य मेदिनीं प्रत्यपूजयत्॥ 13-69-29(84290)
एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान्।
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे॥ ॥ 13-69-30(84291)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनसप्ततितमोऽध्यायः॥ 69 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-69-1 सोमो राजा येषां ते सोमराजानः॥ 7-69-2 प्रश्नपूर्वकं यत्तदिष्टं दीयते तत्किमिच्छकम्॥ 7-69-6 चन्द्रमा वायुरापो भूरम्बरं दिशः इति झ.पाठः॥ 7-69-9 तेपि दातारोपि। तत् प्रदेयं द्रव्यम्॥ 7-69-11 तद्यज्ञादिकम्। भूतमुत्पन्नम्। ब्राह्मणो वेद तद्भूतमिति थ.ध. पाठः॥ 7-69-17 कुं पृथिवीं ब्राह्मणाय प्रक्षिप्य दत्त्वा पारगामिनं परलोकहितं कर्म आरभेदाचरेत्। भानू दीप्तिं कुर्वन्नुभयलोके इति शेषः। पुरगामिनमाहरन्निति थ.पाठः॥ 7-69-23 अपरे ब्राह्मणं सर्वभूतये इच्छेदित्याहुरिति विपरिणामेनानषङ्गः॥ 7-69-24 क्रुष्टः क्रोशति। कर्तरि क्तः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|